________________
आगम
(४३)
प्रत सूत्रांक
॥१४
-१५||
दीप
अनुक्रम
[५३५
-५३६]
Educa
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ १६ ], मूलं [१०] / गाथा || १४-१५ || निर्युक्ति: [३८५...]
सन्तापोपतसानां जन्तूनां निर्वृत्तिहेतुतयाऽभिलपित्तफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्त्तेतेतियावत्, यद्वा धर्मे आ - समन्ताद्रमत इति धर्मारामः 'संचरेत् संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिःचित्तखास्थ्यं तद्वान् स चैवं धर्मसारथिः - "ठिओ उठावए परं" इति वचनादन्येषामपि धर्मे प्रवर्त्तयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः - आसक्तिमान् धर्मारामरतः तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः - समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ ब्रह्मचर्यविशुद्धयर्योऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह -
देवदाणवगंधा, अक्खरक्खसकिन्नरा । वंभयारिं नर्मसंति, दुकरं जे करंति तं ॥ १६ ॥
देवाः - ज्योतिष्क वैमानिकाः दानवाः- भुवनपतयः गन्धर्वयक्षराक्षस किन्नराः व्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम्, एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कुर्वन्ति 'दुष्करं' कातरजनदुरनुचरं 'जे' इति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्रार्थः ॥ सम्प्रति सकलाध्ययनार्थोपसंहारमाह—
एस धम्मे धुवे नियए, सासए जिणदेसिए ।
सिद्धा सिज्झति चाणेणं, सिज्झिस्संति तहापरे ॥ १७ ॥ ति बेमि ॥
For Parsons Praten
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~360~