SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१६], मूलं [-] / गाथा ||१६...|| नियुक्ति: [३८४] प्रत सूत्रांक ||१६|| - समाहीइ चउकं दव्वं दव्वेण जेण उ समाही । भावमि नाणदंसणतवे चरिते अ नायव्वं ॥ ३८४ ॥ समाधौ ‘चउक'ति प्राग्वच्चतुष्को नामादिनिक्षेपः, तत्र नामस्थापने प्रसिद्धे, 'द्रव्य मिति द्रव्यसमाधिः 'द्रव्येण' माधुर्यादिगुणान्वितेन 'येन' हेतुना 'तुः' पूरणे 'समाधिः' खास्थ्यमुपजायते तदेव समाधिहेतुत्वात्समाधिरिति । 'भावंमि णाणदसणतवे चरिते अत्ति सूत्रत्वाद्भावे ज्ञानदर्शनतपांसि चरित्रं च स्वस्वरूपाविरोधेनावस्थानात्समा घिर्जातव्यः, यद्वा ज्ञानं च दर्शनं च तपश्चेति समाहारः ततो ज्ञानदर्शनतपसि चरित्रे च, प्रक्रमाद्यः समाधिः18 अमीषामेव परस्परमविरोधेनावस्थानं स भावसमाधिरिति ज्ञातव्यमिति गाथार्थः । स्थाननिक्षेपमाह10. (२) () ) ) (१२) नामंठवणादविए खित्तद्धा उद्दउवरई वसही। संजमपग्गह जोहे अचलगणणसंधणा भावे ॥ ३८५॥ | सर्वत्र स्थानमिति योजनीयं, नामस्थानमित्यादि, तत्र नामस्थानं प्रतीतं, स्थापनास्थानं तु यो यद्गुणोपेतो यस्मिनाचार्यादिपदे स्थाप्यते स एव तिष्ठत्यस्मिन् स्थान इति स्थापनास्थानमुच्यते, 'द्रव्यस्थानम्' आकाशम् , अत्र हि जीवादिद्रव्याणि तिष्ठन्तीति, क्षेत्रस्थानमप्याकाशमेव, यतः क्षेत्रमाकाशं तच्चाकाश एव तिष्ठति, उक्तं हि-'आकाशं तु खप्रतिष्ठित मिति, अद्धास्थानमर्द्धतृतीयद्वीपसमुद्ररूपं समयक्षेत्रं, तत्रैव समयावलिकाद्युपलक्षितस्याद्धाकालस्य स्थितेः, 'ऊर्द्धस्थान' यत्रोझै स्थीयते, तब कायोत्सर्गः, 'उपरतिस्थानं' यत्र सर्वसावधविरतिरवाप्यते, 'वसतिस्थानं' यत्र दीप अनुक्रम [५१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: -~344
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy