SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [४७३] उत्तराध्य. बृहद्वृत्तिः ॥४०६ ॥ [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३२|| निर्युक्तिः [३७३...] अध्ययनं [१४], तत्किं वयःस्थैर्याद्यर्थं दीक्षां प्रतिपद्यसे ?, उच्यते हि कैश्चित् दीक्षा वयःस्थैर्यादिविधायिनीत्याशङ्कयाह'न' इति निषेधे जीवितम्-असंयमजीवितम् उपलक्षणत्वाद्वयश्च तदर्थे 'प्रजहामि' प्रक्रर्षेण त्यजामि 'भोगान्' शब्दादीन्, किन्तु 'लाभम्' अभिमतवस्त्वातिरूपम् 'अलामं च' तदभावरूपं 'सुखम्' अभिलषणीय विषयसम्भोगजं, चस्य भिन्नक्रमत्वाद् 'दुःखं च' बाधात्मकं 'संचिक्खमाणो'त्ति समतया ईक्षमाणः पश्यन् किमुक्तं भवति ? - लाभालाभयोस्तथा सुखदुःखयोरुपलक्षणत्वाज्जीवितमरणादीनां च समतामेव भावयन् 'चरिष्यामि' आसेविष्ये, किं तत् ?'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः ॥ वाशिष्ट्याह मा हू तुमं सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी । • भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया बिहारो ॥ ३३ ॥ 'मा' इति निषेधे 'हू:' इति वाक्यालङ्कारे त्वं सोदरे शयिताः सोदर्याः, 'सोदराद्य इति ( पा०४-४-१०९ ) यः प्रत्ययः, ते च समानकुक्षिभवा भ्रातरस्तेषाम् उपलक्षणत्वाच्छेषखजनानां भोगानां च, 'संभरे'त्ति अस्मापः, क इव :'जुण्णो व हंसो 'ति इवशब्दस्य भिन्नक्रमत्वात् 'जीर्णः' वयोहानिमुपगतो 'हंस इव' प्रधानपक्षीव प्रतिकूलं स्रोतः प्रतिस्रोतस्तद्गामी सन् किमुक्तं भवति ? - यथाऽसौ नदीस्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुस्रोत एवानुधावति, एवं भवानपि दुरनुचरं संयमभारं वोडमसमर्थः पुनः सहोदरादीन् भोगान् वा स्मरिष्यति, For P&Prale Use One इपुकारीय मध्ययनं. ~313~ १४ ॥४०६ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy