________________
आगम
(४३)
प्रत
सूत्रांक
||२९
-३०||
दीप
अनुक्रम
[४७०
-४७१]
उत्तराध्य.
बृहद्वृत्तिः
॥४०५॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [१४], मूलं [-] / गाथा ||२९-३०|| निर्युक्ति: [३७३...]
उपलक्षणं चैतद् व्रतग्रहणस्य कालः - प्रस्तावो वर्त्तत इति शेषः । किमित्येवमत आह-'शाखाभिः' प्रतीताभिः 'वृक्षः ' द्रुमः 'लभते' प्राप्नोति 'समाधि' स्वास्थ्यं, 'छिन्नाभिः' द्विधाकृताभिः शाखाभिः 'तमेव' वृक्षं यस्ताभिः समा धिमाप्तवान् 'खाणुं'ति स्थाणुं जनोऽप्युपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षण सहायकृत्यकरणादिना | समाधिहेतवः एवं ममाप्येतौ सुतावतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति किं ममैवंविधस्य खपरयोः कञ्चिदु|पकारमपुष्णत एव गृहवासेनेत्यभिप्रायः । किञ्च पक्षाभ्यां - पतत्राभ्यां विहीनो-विरहितः पक्षविहीनः, 'वा' दृष्टान्तान्तरसमुचये, यथा 'इह' अस्मिँल्लोके 'पक्षी' विहङ्गमः पलायितुमप्यशक्त इति मार्जारादिभिरभिभूयते । तथा | भृत्याः पदातयस्त द्विहीनो, वा प्राग्वत्, 'रणे' सङ्ग्रामे 'नरेन्द्रः' राजा शत्रुजनपराजयस्थानमेव जायते, तथा विपन्न:विनष्टः सारो-हिरण्यरत्नादिरस्येति विपन्नसारो वणिक सांयात्रिको, येति प्राग्वत्, 'पोते' प्रवहणे भिन्न इति गम्यते नार्वाग् न च परत इत्युदधिमध्यवर्त्ती विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपि, कोऽर्थः ? - पक्षभृत्यार्थसारभूताभ्यां सुताभ्यां विरहितोऽहमप्येवंविध एवेति सूत्रद्वयार्थः ॥ वाशिष्टयाह---
Jam Education Intimational
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पनूया ।
भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमगं ॥ ३१ ॥ सुष्ठु -- अतिशयेन संभृताः - संस्कृताः सुसंभृताः, के ते ? 'कामगुणा' वेणुवीणाकणितकाकलीगीतादयः 'इमे'
For Parsons Private On
इषुकारीय
मध्ययनं.
१४
~311~
॥४०५॥
tr
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः