________________
आगम
(४३)
प्रत सूत्रांक
||१०
-१५||
दीप
अनुक्रम [४५१
-४५६]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [१४], मूलं [ - ] / गाथा || १०-१५ || निर्युक्ति: [३७३...]
मानं, वृद्धास्तु व्याचक्षते - 'लोलुप्यमाणं' ति लालप्यमानं - 'भरणपोषणकुलसंताणेसु य तुम्भे भविस्सह'त्ति, 'बहुधा ' अनेकप्रकारं 'बहु' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, 'पुरोहितं' 'पुरोधसं 'त'मिति प्रक्रान्तं 'कमसो'त्ति क्रमेण परिपाठ्या 'अनुनयन्तं' स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च-तौ भोगेरुपच्छन्दयन्तं 'सुती' पुत्री 'धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणैः' अभिलषणीयशब्दादिविषयैः पाठान्तरतःकामगुणेषु या, 'चः' समुच्चये 'एव' इति पूरणे, कुमारकौ तावनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेणाज्ञानाच्छादितमतिमालोच्य 'वाक्यं' वचो वक्ष्यमाणमुक्तवन्ताविति गम्यते । किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता न 'भवन्ति' जायन्ते 'त्राणं शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धेः उक्तं हि तैरपि - "अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिरः । दुष्कुलेनाप्यधीयन्ते, शीलं यस्य स रोचते ॥ १ ॥" तथा "शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥ २ ॥” तथा 'भुज'ति अन्तर्भावितण्यर्थत्वाद्भोजिताः 'द्विजाः ' त्राह्मणाः 'नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो नरकस्तत्तमसा - अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन् अतिरौद्रे रौरवादिनरके णमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादावेव कर्मोपचयनिबन्धने असद्व्यापारे प्रवर्त्तन्त इत्यसरप्रवर्त्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दूरापास्तमित्यर्थादुक्तं, तथा 'जाताश्च' उत्पन्नाः 'पुत्राः' सुता न भवन्ति 'त्राणं' शरणं नरकादिगतौ निपततामिति गम्यते, उक्तं हि तन्मतानुसा
For P&PU
wandmary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~300~