________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१३], मूलं [-1 / गाथा ||१|| नियुक्ति: [३३६-३३८]
प्रत
सूत्रांक
||१||
तया जीवलोकस्य मृतो ब्रह्मराजः, कृतमौ देहिकम् , अतिक्रान्तेषु च कतिपयदिनेषु तद्वयस्यैरभिषिक्तो राज्ये ब्रह्मदत्तः, पर्यालोचितं च तैः-यथैष नाद्यापि राज्यधुराधरणधीरेय इति पालयितुमुचितः कतिचित्संवत्सराणि, निरोपितस्तैस्तत्र दीर्घपृष्ठः, गताः खस्वदेशेषु कटकादयः, जातश्च सर्वत्राप्रतिहतप्रवेशतया दीर्घपृष्ठस्य सह चुलन्या सम्बन्धः, ज्ञातं चैतदन्तःपुरपालिकया, न्यवेदि च तया धनुर्नाम्नः सेनापतिमत्रिणः सकलमपि तद्वृत्तं, निरूपितस्तेन वरध-2/ नुर्यथा न कदाचित्कुमारस्त्वया मोक्तव्य इति, आरब्धश्चासौ तथैवानुष्ठातुम् , अन्यदा चायं विदितदीर्घपृष्ठचुलनी-1 वृत्तान्तः केनचिदुपायेनामू निवारयामीति विजातिशकुनिकसङ्ग्रहणकमानीय कुमारायोपनिन्ये, तचातिनियमित-11 मादायान्तःपुरस्वान्तः किलान्योऽपि य एवं दुष्टशीलः सोऽस्माभिरित्थं नियत्रणीय इति तो खयं खसहचरैश्च डिम्भरुद्घोषयन्तौ प्रतिदिनमितश्चेतश्च भ्रमितुमारब्धी, उपलब्धं च तत्ताभ्यामनुष्ठीयमानं दीर्घपृष्ठेन, कुपितश्चासौ कुमाराय, भणिता च चुलनी-यथाऽयमुपायेन केनापि विनाश्यतां यतो न विषकन्दल इथप उपेक्षितः क्षेमरोऽस्माकं भवितेति, प्रतिपन्नं च तत्तया दुरन्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपाय:-यथाऽस्मै पुष्पचूलमातुलेन खदुहिता पुष्पचूला नाम पूर्वदत्तेति तामसौ परिणाय्यते, कार्यते चैतच्छयनाय जतुगृहम् , एतच्च तन्मत्रितमशेषमपि तधैवान्तःपुररक्षिकया निवेदितं धनोः, तेनापि विनष्टमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयत्नः कर्तुमुपचक्रमे, तथाहि-पृष्टोऽसावनेन दीर्घपृष्ठो यथा वयमिदानी वृद्धास्तत्किमिदानीमपरेण ?, युष्माभिरनुज्ञाता धर्ममेवैतत्कालो
दीप अनुक्रम [४०७]
SamEducatamintamatunal
FaPROTHERwatatuwant
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~256~