SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१३], मूलं [-1 / गाथा ||१|| नियुक्ति: [३३५...] (४३) प्रत सूत्रांक ||१|| कुपितश्चासौ तेभ्यः समस्तजनदहनक्षमामसह्यतेजोलेश्यां मोक्तुमुपचक्रमे, तत्र च मुखविनिर्यबहलधूमपटलान्धकारितदिकचक्रवाले व्याकुलितः सान्तःपुरः सनत्कुमारचक्रवर्ती सकलो नगरलोकश्च समायातस्तत्पार्थे, तद्वृत्तान्तश्रवणतश्चित्रश्च, प्रारब्धस्तैरनेकधा सान्त्वनवचनैरुपशमयितुं, तथापि तत्रात्मानमस्मरत्यतिकोपवशगे भगवति मा भूदस्माकमकस्माद्भस्मीभवनमिति स्त्रीरत्नसहितो महीपतिस्तं क्षमयाम्बभूव, यथा-भगवन् ! क्षमितव्यमस्माकमिदमिति, अस्मिंश्चान्तरे स्त्रीरत्नकोमलालकस्पर्शसमुत्पन्नतदभिलाषो विगलितानुशयश्चाण्डालजातिरेव ममैवमनेकधा कदर्थनाहेतुरिति चिन्तयश्चित्रयतिना निवार्यमाणोऽपि यदि ममास्य तपसः फलमस्ति तदाऽन्यजन्मनि चक्रवर्तित्वमेव । मम भूयाद् येनाहमप्येवं ललितललनाविलासास्पदमुत्तमजातिश्च भवामीति निदानवशगोऽनशनं प्रपेदे । ततः सदा तपोऽनुभावतो नलिनगुल्मविमाने वैमानिकत्वेनाजनि, ततश्च च्युतश्शुलन्यां ब्रह्मदत्तः समुत्पेदे । क ? इत्साह कंपिल्ले संभओ। है 'काम्पिल्य' इति पञ्चालमण्डलस्य तिलक इव काम्पिल्यनाम्नि नगरे 'संभूत' इति पूर्वजन्मनि संभूतनामा । अमुं पादमतिकान्तसूत्रोत्तरपादद्वयं चैतद्गदितार्थप्रसङ्गायातार्थान्तराभिधानद्वारतः स्पृशन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत् दीप अनुक्रम [४०७] SamEdicatonmannadiand For Prato पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~254
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy