SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३], मूलं [-1 / गाथा ||१|| नियुक्ति: [३३३-३३५] प्रत सूत्रांक ||१|| ACKASHere चतुभिरपि देवायुः, जग्मुश्च देवलोकं, ततश्युतौ चाकृतजुगुप्सौ तु कतिचिद्भवान्तरिती द्वाविषुकारपुरे द्विजकुले जातो, तद्वक्तव्यता च इषुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सको तो दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ, तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारो, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधा-४ नाद , द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात् , इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः । उक्तो नामनिष्पननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसर इति सूत्रमुच्चारणीयं, तवेदम् जाईपराजिओ खलु कासि नियाणं तु हथिणपुरंमि । चुलणीइ वंभदत्तो उववन्नो नलिण (पउम) गुम्माओ॥१॥ 'जातिपराजितः' इति जात्या-प्रस्तावाचाण्डालाख्यया पराजितः-अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमाणन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित | 2 इत्येवमुक्तः, यद्वा जातिभिः-दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति-पराभवं मन्यमानोऽहो! अहमधन्यो यदित्थं नीचाखेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह'कासित्ति अकार्षीत् , किमित्याह-निदान' चक्रवर्चिपदावाप्तिर्मम भवेदित्येवमात्मक 'तुः' पूरणे, केदं कृतवान् ? दाइत्याह-'हत्थिणपुरंमि'त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उववण्णोत्ति उत्पन्नः 'पभगुल्मात्' इति नलिनगुल्मवि दीप अनुक्रम [४०७] m inem Furammarwata tiwand पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~252~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy