SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२१ -२३|| दीप अनुक्रम [३८० -३८२] Education [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [१२], मूलं [--] / गाथा ||२१-२३ || निर्युक्ति: [३२७...] देवस्य - अमरस्याभियोगो - बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा 'दिन्ना मुत्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन ?- राज्ञा-प्रक्रमात्कौशलिकेन, तथापि 'मणस'त्ति अपेर्गम्यमानत्वान्मनसाऽपि - चित्तेनापि 'न ध्याता' न चिन्तिता नाभिलषितेतियावत्, प्रक्रमादेतेन मुनिना, कीदृशेन ?नरेन्द्राश्च नृपतयो देवेन्द्राश्थ - शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि - आभिमुख्येन वन्दितः - स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह-येनास्म्यहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवार्थ समर्थयितुमाह-'एसो हु सोत्ति, एष एव स न मनागप्यत्र संशयः, उम्र - उत्कटं दारुणं वा कर्म्मशत्रून् प्रति तपः - अनशनाद्यस्येति उग्रतपाः, अत एव महान् प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ( ग्रं० ९००० ) ब्रह्मचारी च प्राग्वत् स इति क ? इत्याह-यो 'मि'ति मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलपति 'दीयमानां' निसृज्यमानां केन ?- 'पित्रा' जनकेन 'स्वयं' आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा १कौशलिकेन राज्ञा, न त्वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाह-- 'महायसा' अपरिमितकीर्त्तिः 'एप' प्रत्यक्षो मुनिर्महानुभागः -- अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो बा, तत्र चानुभावः - शापानुग्रहसामर्थ्यं, 'घोरत्रतो' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रौ For Parana Privat org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~230~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy