________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१२], मूलं [-] / गाथा ||१६|| नियुक्ति : [३२७...]
प्रत सूत्रांक ||१६||
भैक्षवृत्तेरेव समर्थितत्वात् , तथा च वेदानुवादिनः-"चरेद् माधुकरी वृत्तिमपि म्लेच्छकुलादपि । एकानं नैव मुजीत, बृहस्पतिसमादपि ॥१॥" यदिवोच्चावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चव्रतानि वा शेषत्रतापेक्षया महाप्रतानि ये मुनयश्चरन्ति-आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षगानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः । इत्थमध्यापर्क यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुः
अज्झावयाणं पडिकूलभासी, पभाससे कि सगासि अहं।
अवि एवं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं नियंठा ! ॥ १६ ॥ __ अध्यापयन्ति-पाठयन्तीत्यध्यापकाः-उपाध्यायास्तेषां प्रतिकूल-प्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी|3| सन् प्रकर्षण भाषसे-भूपे प्रभाषसे, किमिति क्षेपे, 'चरित्यक्षमायां, ततश्च धिम् भवन्तं न वयं क्षमामहे यदित्य भवान् ब्रूते सकाशे-समीपे 'अम्ह'ति अस्माकम् , अपिः सम्भावनाया, 'एतत्' परिदृश्यमानं 'विनश्यतु' कथित-|| त्यादिना खरूपहानिमाप्नोतु 'अन्नपानम्' ओदनकाधिकादि, 'नच' नैव 'ण'मिति वाक्यालङ्कारे 'दाहामुत्तिदास्या-18 मस्तव हे निर्ग्रन्थ !-निष्किञ्चन !, गुरुप्रत्यनीको हि भवान्, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः । यक्ष आह
दीप अनुक्रम [३७५]
Samsairatnmifinatana
For
Prato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
-~226