________________
आगम
(४३)
प्रत
सूत्रांक
||38||
दीप
अनुक्रम [ ३५८]
उत्तराध्य.
बृहद्वृत्तिः
॥३५३॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [११],
मूलं [-] / गाथा ||३१||
निर्युक्ति: [३१७]
| इत्याह- 'सुयस्स पुण्णा विउलस्स' त्ति - सुव्यत्ययाच्छ्रुतेन - आगमेन पूर्णाः परिपूर्णा विपुलेन - अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह- 'क्षपयित्वा' विनाश्य 'कर्म्म' ज्ञानावरणादि, गम्यत इति गतिस्ताम् 'उत्तमां' प्रधानां, मुक्तिमितियावत्, 'गताः' प्राप्ताः, उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थ व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः ॥ इत्थं बहुश्रुतस्य गुणवर्णनात्मिकां पूजामभिधाय शिष्योपदेशमाह -
तम्हा सुयमहिद्वेजा, उत्तमहगवेसए। जेणऽप्पाणं परं चैव, सिद्धिं संपाउणिञ्जासि ॥ ३२ ॥ तिमि ॥
व्याख्या यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिनाऽऽश्रयेत्, उत्तमः -- प्रधानोऽर्थः - प्रयोजनम् उत्तमार्थः, स च मोक्ष एव तं 'गवेषयति' अन्वेषयतीति उत्तमार्थगवेषकः, येन किं स्यादित्याह - 'येन' श्रुताश्रयणेन 'आत्मानं' एवं 'परं' चान्यं तपस्व्यादिकं 'एवः' अवधारणे भिन्नक्रमच सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः, ततः 'सिद्धि' मुक्तिगतिं 'संपाउणिजासि'त्ति सम्यक् प्रापयेदेव, नेह कश्चित् सन्देह इति सूत्रार्थः । 'इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्वयत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि पूर्ववदेव ।। इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायामेकादशमध्ययनं समाप्तम् ॥
Education Intemational
For Pana Prat
बहुश्रुतपू
जाध्ययनं. ११
~ 207~
॥ ३५३ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
अत्र अध्ययनं ११ परिसमाप्तं