________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [९], मूलं [-1 / गाथा ||५५-५७|| नियुक्ति: [२७९...]
प्रत
सूत्रांक
9-%
||५५
-५७||
ANCE
दखते इत्याधुक्तेऽपि कथं मयि जीवतीदमिति नाहङ्गतिं कृतवानिति, तथा 'अहो ते णरकिय'त्ति प्राकृतत्वान्निराकृता-अपास्ता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराहालकोच्छूलकादिषु निकृतिहेतुकेष्यामोषकोच्छेदनादिषु च न मनो निहितवान् , तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान् , अत एव अहो 'ते' तव 'आजवम्' ऋजुत्वं साधु' शोभनम् , | अहो ते साधु 'मार्दयं मृदुत्वम् , अहो ते 'उत्तमा' प्रधाना 'शान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता| उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्य सम्प्रति है फलोपदर्शनद्वारेण स्तुवन्नाह
इहंऽसि उत्तमो भंते !, पेचा होहिसि उत्तमो। लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ।।५८॥ व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः'प्रधानः, उत्तमगुणान्वितत्वात्, 'भंते'त्ति पूज्याभिधानं प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह-लोकस्य-चतुर्दशरज्यात्मकस्य 'उत्तमम्' उपरिवर्ति लोकोत्तमम् है उत्तम देवलोकाद्यपेक्षया प्रधानम् , अथवा 'लोगोत्तममुत्तमं ति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा
उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तम, तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह-"सिद्धि' ४/मुक्तिं 'गच्छसि त्ति सूत्रत्वाद्गमिष्यसि, निगेतो रजसः-कर्मण इति नीरजा इति सूत्रार्थः । उपसंहारमाह
दीप अनुक्रम [२८३-२८५]
SamEducatimlid
Furammarwata tiwand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~138~