________________
आगम (४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[२३५]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||७|| निर्युक्ति: [२७९...]
अध्ययनं [९],
हलकेन-बहलकलकलात्मकेन सङ्कुलाः व्याकुलाः कोलाहलकसंकुलाः 'श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह — दारयन्ति जनमनांसीति दारुणाः - विलपिताऽऽक्रन्दितादयः, व पुनस्ते ? - 'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु यद्वा 'प्रासादो देवतानरेन्द्राणा'मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्वन्धिष्यास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ततश्च-
एयम निसामित्ता, हेडकारणचोइओ । ततो णमी रायरिसी, देविंदं इणमब्बवी ॥ ९ ॥ व्याख्या–‘एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनिं 'निशम्य' आकर्ण्य हिनोति - गमयति विवक्षितमर्थमिति हेतुः, स च पञ्चावयववाक्यरूपः कारणं च - अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः प्रेरितः हेतुकारणचोदितः, कोलाहलकसङ्कला दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि - अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतु:, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतुः शेषावययविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न
For Parna Prat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
| अत्र सूत्रक्रम ८ वर्तते, मूल संपादने स्खलनत्वात् तस्य क्रम ९” मुद्रितं
~116~