SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||||| दीप अनुक्रम [3] उत्तराध्य. बृहद्वृत्तिः ॥ ३१ ॥ [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || निर्युक्ति: [४५] अध्ययनं [१], औदयिकादिवचसो मनुष्यत्वादिपर्यायेण चशब्दोऽत्र पूर्वत्र च समुच्चये । द्वितीयमाह - द्विकस्य संयोगो द्विकसंयोगः स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहाभिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्याप्रअन्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र द्विकसंयोगो यथा - स च स च तौ, त्रिकसंयोगो यथा - स च तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा स च तौ चेत्यनुक्तावप्येकत्राभिलाप्यार्थद्वयमन्यत्र चाभिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभिलाप्येन सह प्रतीतेः । तृतीयमाह - अक्षरे व अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्योदाताद्यशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा -- क इति, अक्ष| राणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु खधिया भावनीयाः, अस्याप्यभिलापसंयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात्, यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात्, द्रव्यत्वं चास्य स्पर्शवत्वेन गुणाश्रयत्वात्, वक्ष्यति हि "गुणार्णमासओ दबं” ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात्, तथाहि यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं यथा लोष्टादि, प्रतिघातजनकश्च शब्दः, १ गुणानामाश्रयों द्रव्यमिति Education intimation For Patenty अध्ययनम् १ ~73~ ॥ ३१ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy