SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्तिः [१] अध्ययनं [-], मूलं [-], दावलिका आवलिकातो मुहूर्तमित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविधंसचित्ताचित्तमिश्रभेदात्, सचित्तप्रधानोत्तरमपि त्रिधैव तथथा - द्विपदं चतुष्पदमपदं च तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यश्चिन्तामणिः, मिश्रं तीर्थकर एव गृहस्थावस्थायां सर्वालङ्कारालङ्कृतः, ज्ञानोत्तरं केवलज्ञानं विलीनसकलावरणत्वेन समस्तवस्तुस्वभावाभासितया च यद्वा श्रुतज्ञानं, तस्य खपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात् उक्तं च"सुयणाणं महिडीयं, केवलं तयणंतरं । अप्पणो य परेसिं च, जम्हा तं परिभावणं ॥ १ ॥” ति, क्रमोत्तरं क्रममाश्रित्य यद्भवति तच्चतुर्विधं - द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः परमाणोर्द्विप्रदेशिकः ततोऽपि त्रिप्रदेशिकः एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः, क्षेत्रत एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदे| शावगाढः एवं यावदवसानवर्त्यसङ्ख्येयप्रदेशावगाढः, कालत एकसमयस्थितेर्द्विसमय स्थितिः ततोऽपि त्रिसमयस्थितिः | एवं यावदसङ्ख्येय समयस्थितिः, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यावदनन्तगुणकृष्णः, यतो वा क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओत्ति गणनात उत्तरमेककाद १ श्रुतज्ञानं महद्धिकं केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तत्परिभावनम् ॥ १ ॥ Education intimational For at Use Only www.jancibrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~18~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy