SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-], नियुक्ति: [-] T༔ ༔ r”བློ विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद्, व्याप्यस्य च व्यापकाविनाभावित्वात् , अतः प्रेक्षावत्प्रवृत्त्यङ्गमात्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनानि याच्यानि । यथ शब्दस्याप्रमाणत्वमभिधाय । मतदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकलव्यवहाराणामुच्छेद प्रसङ्गात् , उक्तं हि-"लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिवन्धनम् ॥१॥" इति । तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा-'तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । से तब्भेयनिरुत्तिक्कमपयोयणाईच बचाई॥१॥'फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्थाभि-3 धानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रमायोजनं सर्वत्र योज्य, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि & तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतच, तत्र हेतुत उत्तराध्ययनानु-ट योगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथाखं प्रणेतारः ततस्तदवयोधिततदर्धास्तच्छिष्याः ततोऽपि तद्विने-12 यास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततश्चूर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरव इति गुरुपर्वदाक्रमलक्षणः । फलतस्तूपायोपेयभावरूपः अभिहितफलस्योपेयत्वात् प्रतुतानुयोगस्य च तदुपायत्वादिति । ममाति-13 १ तस्य फलयोगमङ्गलसमुदायार्थांस्तथैव द्वाराणि । तद् (द्वार ) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यानि ॥ १॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~14
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy