________________
आगम
(४३)
प्रत
सूत्रांक
||७||
दीप अनुक्रम [७]
उत्तराध्य.
बृहद्वृत्तिः
॥ ४६ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||७||
अध्ययनं [१],
निर्युक्तिः [६३...]
तच तन्निजमेव निजकं च- ज्ञानादि तस्यैव बुद्धेरात्मीयत्वेन तत्त्वत उक्तत्वात् बुद्धोक्तनिजकं, तदर्थयते-अभिलपतीत्येवंशीलः बुद्धोक्तनिजकार्थी सन्, पठन्ति च- 'बुद्धबुत्ते णियागट्टि त्ति' बुद्धैः- उक्तरूपैर्युक्तो - विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम् - आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, 'पुत्ता व सीसा य समं विद्दित्ता' इति वचनात् स्वरूपविशेषणमेतत् नितरां यजनं यागः-पूजा यस्मिन् सोऽयं नियागो मोक्षः, तत्रैव नितरां पूजासम्भवात् तदर्थी सन् किमित्याह - 'न निष्काश्यते' न वहिष्क्रियते, कुतचिद् गच्छगणादेः, किन्तु विनीतत्येन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनय एषयितव्य इत्याह
णिसंते सिया अमुहरि, बुद्धाणमंतिए सया । अट्टजुत्ताणि सिक्खिजा, निरट्टाणि उ वज्जए ॥८॥ (सूत्रम्)
व्याख्या - नितराम् - अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्याद्' भवेत्, तथा 'अमुखारिः' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा' सर्वकालमर्यते - गम्यत इति अर्थः, अर्तेरीणादिकस्थन् ( उषिकुपिगाऽर्तिभ्यस्थन् उ० (२-४ ) स च हेय उपादेयश्वोभयस्याप्यर्यमाणत्वात् तेन युक्तानि - अन्वितानि अर्थयुक्तानि तानि च हेयोपादे१ पुत्रांश शिष्यांच समं विभज्य ( विधाय ).
Education intimation
For Parts at Use Only
अध्ययनम्
~ 103~
॥ ४६ ॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः