________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४२], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
वकारार्थः, स चावधारणे, सावद्य एव, कः?-कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह -न जिनः अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः 'प्रशंसितः स्तुतः, सारम्भपरिग्रहत्वात्, अत्र बहु :
वक्तव्यम् , तत्तु नोच्यते, गमनिकामात्रफलत्वात् प्रस्तुतव्यापारस्येति गाथार्थः ॥ उक्तः कुप्रावनिकः, साकम्प्रतं लोकोत्तरं प्रतिपादयन्नाह
दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो अ । सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ ४३ ॥ व्याख्या-द्विविधो-द्विप्रकारो'लोकोत्तरों लोकप्रधानो, धर्म इति वर्तते, तथा चाह-श्रुतधर्मः खलु चारित्रधर्मश्च, तत्र श्रुतं-द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः, खलुशब्दो विशेषणार्थः, किं विशिनष्टि ?-स हि वाचनादिभेदाचित्र इति, आह च-श्रुतधर्मः स्वाध्यायः-वाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुखाद्धर्म इति । तथा चारि
धर्मश्च, तत्र "चर गतिभक्षणयोः" इत्यस्य "अतिलघूसूखनसहचर इत्रन्" (पा०३-२-१८४) इतीत्रन्प्रत्यमायान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावनारित्रम्, अशेषकर्मक्ष-18
याय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्म इति । चः समुच्चये । अयं च श्रमणधर्म एवेत्याह-चारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः "कृत्यल्युटो बहुलम्" (पा० ३-३-११३) इति वचनात् कर्त्तरि ल्युट, श्राम्यतीति-तपस्यतीति, एतदुक्तं भवति-प्रवज्यादिवसादारभ्य सकलसावद्ययोगविरती गुरूपदेशाद
१प्रयासस्येति प्र.
दीप अनुक्रम
JanElicitatli
~56~