________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक [F], मूलं [४...] / गाथा ||११-१५|| नियुक्ति: [३५८...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
-१५||
पिकभावः स भिक्षुरिति सूत्रार्थः ॥११॥ एतदेव स्पष्टयति-प्रतिमा' मासादिरूपां 'प्रतिपय विधिनाs- १० सामन हारि-वृत्तिङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टा' रौद्रभयहेतुनुपलभ्य वैतालादि-15 ॥२६७॥
रूपशब्दादीनि 'विविधगुणतपोरतश्च नित्यं मूलगुणायनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाश्ते निःस्पृहतया वार्समानिकं भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥ १२॥ न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेह व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः-शरीरं येन स तथाविधा, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खगादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीयते, तथा 'अनिदानों' भाविफलाशंसार|हिता, अकुतूहलच नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥१३॥ भिक्षुस्वरूपाभिधानाधिकार एवाह|
-'अभिभूय' पराजित्य 'कायेन शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कानानभिभवेटू तत्वतस्तदनभिभवात, 'परीषहान' क्षुदादीन, 'समुद्धरति उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह-विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महाभयं महाभयकारण, 'तपसि रतः' तपसि सक्ता, किंभूत इत्याह- श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रायः ॥१४॥
तथा हस्तसंयतः पावसंयत इति-कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वासंयतः ॥२६७॥ १ अकुशलबाग्निरोधकुशलबागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्ता,
दीप अनुक्रम [४९५-४९९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~545