________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६३१||
दीप
अनुक्रम
[६७३]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [६७३] • → “निर्युक्ति: [ ६३१] + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
८०
समेतो गलः सरोमध्ये प्रचिक्षिपे, तत्र च सरसि परिणतबुद्धिरेको महादक्षो जीर्णमत्स्यो वर्त्तते स गलगतमांसगन्धमाघ्राय तद्भक्षणार्थ गलस्य समीपमुपागत्य यत्नतः पर्यन्ते पर्यन्ते सकलमपि मांसं खादित्वा पुच्छेन च गलमाइत्य दूरतोऽपचक्राम, मत्स्यबन्धी च गृहीतो गलेन मत्स्य इति विचिन्त्य गलमाकृष्टवान् पश्यति मत्स्यमांसपेशीरहितं गलं, ततो भूयोऽपि मांसपेशीसहितं गलं प्रचिक्षेप, तथैव च स मत्स्यो मांसं खादित्वा पुच्छेन च गळमाहत्य पलायितवान् एवं त्रीन् वारान् मत्स्यो मांसं खादितवान्, न च गृहीतो मत्स्यबन्धेन अह मंसंमि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओऽसि ॥ ६३१॥ व्याख्या - अथ मांसे प्रक्षीणे ध्यायन्तं मात्स्यिकं मत्स्यो भणति, यथा किं त्वमेवं 'ध्यायसि ' चिन्तयसि ?, शृणु तावद्यथा त्वम् ' अहीकः ' निर्लज्जो भवसि ।
तिबला मुहुम्मुको, तिक्खुत्तो वलयामुहे । तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे ॥ ६३२ ॥
व्याख्या— अहमेकदा त्रीन् वारान् बलाकाया मुखादुन्मुक्तः, तथाहि कदाचिदहं बलाकया गृहीतः, तथा (तः) तया सुखे प्रक्षेपार्थमूर्द्धमुत्क्षिप्तस्ततो मया चिन्तितं - यद्यहमृजुरेवास्या मुखे निपतिष्यामि तर्हि पतितोऽयं मुखे इति न मे प्राणकुशलं, तस्मात्तिर्यग्निपतामीत्येवं विचिन्त्य दक्षतया तथैव कृतं परिभ्रष्टस्तस्या मुखात्ततो भूयोऽपि तयोर्द्धमुत्क्षिप्तस्तथैव च द्वितीयमपि वारं मुखात्परिभ्रष्टः, तृतीयवेलायां तु | जले निपतितस्ततो दूरं पलायितः, तथा 'त्रिकृत्वः ' श्रीन् वारान् 'वलयामुखे' वेलामुखे भ्राष्ट्ररूपे निपतितोऽपि दक्षतया शीघ्रं वेलचैव सह विनिर्गतः, तथा 'त्रिसप्तकृत्वः ' एकविंशतिवारान् मात्स्यिकेन प्रक्षिप्ते जाले पतितोऽपि यावन्नाद्यापि स मत्स्यबन्धी संको
For Palsta Use On
~352~