________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१००] .. "नियुक्ति: [६२] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६२||
एहिअपारत्तगुणा दुन्नि य पुच्छा दुवे य साहम्मी । तत्थेकेका दुबिहा चउहा जयणा दुहेकेका ॥२॥
तस्य तत्र प्रामे प्रविशत 'ऐहिकाः' इहलोकगुणा भक्तपानादयो भवन्ति, परत्रगुणाश्च ग्लानादिप्रतिजागरणादिकाः, प्रविशतश्च तस्य द्विधा पृच्छा भवति, सा च विध्यविधिलक्षणा वक्ष्यमाणा । साधर्मिकाश्च द्विधा-साम्भोगिका अन्यसाम्भोगिकाश्च, तन्त्रकको द्विविधः, योऽसौ साम्भोगिकः स च द्विविधः-कदाचिदेकः कदाचिदनेकः, एवमन्यसांभोगि-18
केऽपि वाच्यं, 'चउहा जयण'त्ति चतुर्विधा यतना, साम्भोगिकसंयतयतना साम्भोगिकसंयतीयतना च, अण्णसंभोइयसंज-16 जयजयणा अण्णसंभोइयसंयतीजयणा चेति । 'तत्थेकेका दुविहत्ति तत्रैकैको भेदो द्विविधः-साम्भोगिकसंयता:-कारणिका
निष्कारणिकाच, णवरं (एव) संभोइयसंजइओपि। एवं असंभोइअसंजयावि संजइओघि । अथवाऽन्यथा-'दुवे य साहम्मिति संभोइआ असंभोइआ चेति । 'तत्थेक्केका दुविह'त्ति जे ते संभोइआ ते संजया संजयइओ अ, एवमसंभोइयावि, 'चउहा जयण'त्ति चउविहा जयणा कायचा दबादि ४, 'दुहेकेकत्ति सा एकैका द्रव्यादियतना द्वेधा-तत्थ दवओ पढम फासुएण कीरइ, तदभावे अफासुएणवि, खेत्ततो अकयाकारिआसंकप्पिए गिहे ठाइयचं, तदभावे उद्घाटन गृहस्य कपाटादेरपि क्रियते कालतः प्रथमपौरुष्यां प्रासुकं दीयते, अथ तस्यां न लभ्यते ततः कृत्वाऽपि दीयते । भावतः प्रासुकद्रव्यं शरीरस्य समाधानमाधीयते, तदभावे त्वप्रासुकैरपि । इयं द्वारगाथा महती, तत्रहिकगुणद्वारप्रतिपादनायाह-पडिदारगाहा
इहलोइआ पवित्ती पासणया तेसि संखडी सहो । परलोइआ गिलाणे चेइय वाई य पडिणीए ॥६३॥ 'इहलोइ'त्ति द्वारपरामर्शः, प्रविष्टस्य तस्यायं गुणो भवति-यानभिसन्धाय प्रवृत्तस्तदीयां कदाचित्तत्र वार्ती लभते
दीप
अनुक्रम [१००]
For P
OW
~88~