________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||७५८||
दीप
अनुक्रम [१११२]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्तिः [७५८] + भाष्यं [ ३२२... ] + प्रक्षेपं [ ३०...]"
मूलं [१११२]
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
इति । किच- 'रक्तः' आहाराद्यर्थं सिंहादिः, 'विष्टः' सर्पादिः, 'मूढः' वैदिकादिः, स एवंविधो रक्तो वा द्विष्टो वा मूढो वा ये 'प्रयोग' कायादिकं प्रयुङ्क्ते तत्र हिंसाऽपि जायते, अपिशब्दादनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्तादिभावेनोपजायते न तु हिंसामात्रेणेति वक्ष्यति, तस्मात्स हिंसको भवति यो रक्तादिभावयुक्त इति, न च हिंसयैव हिंसको भवति, तथा चाह-न च हिंसामात्रेण सावद्येनापि हिंसको भवति, कुतः १ शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भणिता जिनवरैरिति । किञ्च-
जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होह निज्जरफला अज्झत्थविसोहिजुत्तस्स ।। ७५९ ।। परमरहस्समिसीणं समत्तगणिपिंडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंयमाणाणं ॥ ७६० ॥ निच्छयमबलवंता निच्छयओ निच्छपं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ ॥ ७६१ ॥
या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः १-सूत्रविधिना समग्रस्य - युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवंविधस्य या भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवति एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये क्षपयतीति, किंविशिष्टस्य :-'अध्यात्मविशोधियुक्तस्य' विशुद्धभावस्येत्यर्थः । किश, परमं प्रधानमिदं रहस्यं तत्त्वं केषाम् !- ऋषीणां' सुविहितानां, किंविशिष्टानां ? -समर्थ च तद् गणिपिटगं च समग्रगणिपिटकं तस्य क्षरितः पतितः सारः - प्राधान्यं यैस्ते समग्रगणिपिटक क्षरितसारास्तेषामिदं रहस्यं, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं पारिणामिकं, शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं ? - निश्चयनयमवलम्बमानानां यतः शब्दादिनिश्चयनयानामिद
For Parts Only
~454~
org