________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||६०९||
दीप
अनुक्रम
[९४३]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ९४३] • → “निर्युक्ति: [ ६०९] + भाष्यं [ ३०६... ] + प्रक्षेपं [२७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थी सुखेनैव चिन्तयति, अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति, सेहस्य चाचार्य प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति, यदुत न कश्चिदत्र गुरुर्नापि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानपतेश्च श्रद्धावृद्धिः कृता भवति, तथा बुद्धेर्बलस्य चाचार्यसत्कस्य वर्द्धनं भवति, तत्र च महती निर्जरा भवति ।
एएहिं कारणेहि उ केइ सहुस्सवि वयंति अणुकंपा । गुरुअणुपाए पुण गच्छे तित्थे य अणुकंपा ॥ ६१० ॥ 'एभिः पूर्वोक्तकारणैः केचित्समर्थस्याप्याचार्यस्यानुकम्पा कर्त्तव्येत्येवं वदन्ति यतो गुरोरनुकम्पया गच्छे तीर्थे चानुकम्पा कृता भवति । यतश्चैवमतः प्रायोग्यग्रहणं ग्राह्यमिति । अत आह—
सति लाभे पुण दवे खेते काले य भावओ चेद । महणं तिसु उक्कोसं भावे जं जस्स अणुकंपं ॥ ६११ ॥ 'सति' विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टं ग्राह्यं । इदानीं नियुक्तिकारो व्याख्यानयन्नाह - 'गहणं तिसु उक्कोसं' ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्टं कर्त्तव्यं भावे तु यद्वस्तु यस्थाचार्यस्यानुकूलं तद्गृह्यते । इदानीं भाष्यकृयाख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाह -
कलमोतणो व पयसा उकोसो हाणि कोदवुब्भज्जी । तत्थवि मितुप्पतरयं जत्थ व जं अचियं दो सु॥३०७॥ (भा०) कलमशाल्योदनः पयसा सह द्रव्यमुत्कृष्टं ग्राह्यं तदलाभे हान्या तावत् गृह्यते यावत् 'कोदवोभज्झी' को वजाउ
For Parts Only
~ 402~