________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [८] » "नियुक्ति: [२...] + भाष्यं [३] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३||
545
दधानं च यत्सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति 'गुत्तीओं'त्ति गोपनानि गुप्तयो-मनोवाकायरूपास्तिस्रः।
'अभिग्गहत्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः, चशब्दो बसत्यादिसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः, 'करणं तति क्रियत इति करणं, मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसद्भावे करणत्वमस्य, नान्यथेति ।। आह-ननु समितिग्रहणेनैव पिण्डविशुद्धगृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमिती सर्वैषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तस्या ग्रहणं भविष्यति, तत्र पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य प्रतिपादनार्थः, अथवाऽऽहा-18 रमन्तरेण न शक्यते पिण्डविशुख्यादि करणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । अत्राह-चरणकरणयोः कः प्रतिविशेषः ? इति, अत्रोच्यते, नित्यानुष्ठानं चरणं, यनु प्रयोजन आपन्ने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते न पुनर्वतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादि तु प्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह परः-४ "ओहेण उ निजुत्तिं वुच्छं चरणकरणाणुओगस्स" इत्येवं वक्तव्यं, तस्किमर्थं पष्ठचुल्लङ्घनं कृत्वा पञ्चम्यभिधीयते, इत्यस्थार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाहचोदगवयणं छट्ठी संबंधे कीस न हवइ विभत्ती? तो पंचमी उ भणिया, किमथि अन्नेवि अणुओगा ॥४॥(भा) ___ व्याख्या-'चोदग'त्ति चोदकवचनं, किंभूतम् ?, तदाह-षष्ठी संबन्धे किमिति न भवति विभक्तिः, संबन्धन संवन्धस्तस्मिन् Mसंबन्धे षष्ठी किमिति न भवति !, एतदुक्तं भवति-चरणकरणानुयोगसंबन्धिनीमोपनियुक्तिं वक्ष्य इति वाच्यं, तदुल्लङ्घन
दीप
~24~