SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५८६...] भाष्यं [२५३...] प्रत AMACHAR सूत्रांक दीप अनुक्रम इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणे इत्यस्य च वक्तहै व्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिम भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा खाद्य स्वायं च, 'अन्यत्रे'ति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा च्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ।। अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयशाह|असणं पाणगं चेब, खाइमं साइमं तहा । एसो आहारविही, चउब्बिहो होइ नायव्यो ॥१५८७ ॥ आसु खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमति य, साएद गुणे तओ साई ॥ १५८८ ॥ * अशन-मण्डकीदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एप आहार-IN विधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधा-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रह-उपकारे यद् वर्तत इति गम्यते तत् पानमिति, है खमिति-आकाशं सच मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान्-रसादीन् संयमगुणान् वा यतस्ततः स्वादिम, [८२] JAmEajatnix K arayan पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~388
SR No.035031
Book TitleSavruttik Aagam Sootraani 1 Part 31 Aavashyak Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size90 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy