________________
आगम
(४०)
प्रत
सूत्रांक
[सू.१०]
दीप
अनुक्रम [ ७८ ]
आवश्यकहारिभ
द्वीया
॥८३५॥
Educato
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.-१०] / [गाथा-], निर्युक्तिः [१५६१...] भाष्यं [२४२...],
त्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिमाकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत् कासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम् - उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपातः - अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीत| देशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यते मा भूद्र बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इति, स व स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन || व्याख्यातं सातिचारं द्वितीयं शिक्षापदवतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम्
पोसहोववासे चव्विहे पन्नत्ते, तंजहा- आहारपोसहे सरीरसकारपोसहे बंभचेरपोसहे अब्बावारपोस हे, पोसहोववासस्स समणो० इमे पञ्च, तंजहा- अप्पडिले हियदु प्पडिले हियसिज्ञा संचारए अपमज्जियदुष्पमज्जियसिज्जासंवारए अप्पडिले हियदुपपडिलेहि पउच्चार पासवण भूमीओ अप्पमज्जियदुष्पमजिय उच्चारपासवणभूमीओ पोसहोववासस्स सम्म अणणुपाल (ण) या ॥ ११ ॥ ( सूत्र )
इह पौषधशब्दो या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचय हेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोपधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा- 'आहारपोषधः' आहारः प्रतीतः तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कार
For Parts Only
६प्रत्याख्या नाध्य० श्रावकत्र ताधि०
~359~
||८३५||
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः अथ पौषधोपवास व्रतस्य वर्णनं क्रियते