SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५१६] भाष्यं [२३१...], प्रत सूत्रांक सू.] तयैवातिचाराः सूक्ष्मवादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र वही रोमश्चादय आदि-15 शब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः॥१५१३।। अधुना 'सूक्ष्मदृष्टिसञ्चारै रिति सूत्रावयवं व्याख्यानयति-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमि त्यर्थः, किं ?-चक्षुः-नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं न शक्यत इत्यर्थः, यतो रूपैतस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः॥१५१४॥ यस्मादेवं तस्मात् न करोति निमेष(रोध)यल कायोत्सर्गकारी, किमिति', 'तत्थुवओगेण झाण झाएजत्ति तत्र-निर्निमेषयले य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पयानो झायइ साहू अणि मिसच्छोऽवि' एकरात्रिकी तु प्रतिमा प्रतिपन्नो महासत्वोध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥१५१५॥ अधुना एवमादिभिराकाररित्यादिसूत्रावयवव्याचिख्यासयाह-'अगणि'त्ति यदा ज्योतिः स्पृशति तदा प्रावरविणाय कल्पग्रहणं कुर्वतोन कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहण न करोति येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्य परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र दभावनीयं, 'छिदिज वत्ति मार्जारीमूषकादिभिवा पुरतो यायात् , अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाइ'सि बोधिका-स्तेनकास्तेभ्यः क्षोभा-संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो(ऽनुमचारयतो)वा न BACCRACK दीप अनुक्रम JAMERI पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~256
SR No.035031
Book TitleSavruttik Aagam Sootraani 1 Part 31 Aavashyak Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size90 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy