________________
आगम
(४०)
प्रत सूत्रांक
[सू.]
दीप
अनुक्रम
[३९]
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा-], निर्युक्तिः [१४९८] भाष्यं [२३१...],
वितथाचरणमविधिना वन्दनं अकरणे चेत्यादि, 'जइ'त्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति, 'सेज'ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं विराधाचरणमविधिना प्रमार्जनादी ख्यादिसंसक्तायां वा बसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यविचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे'त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चार:- पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, 'समिति'त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चेर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासेवने चेत्यादि, 'भावने 'ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्- 'भावयितव्यमनित्यत्वम शरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च १ || निर्जरण लोकविस्तर धर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ २ ॥" अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति'ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समिति| ष्विति गाथार्थः ॥ १४९८ ॥ इत्थं सामान्येन विश्यद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह गोसमुहणंतगाई आलोए देखिए य अइयारे । सबै समाणइत्ता हियए दोसे टविज्जाहि ॥ १४९९ ॥ कार्ड हिअए दोसे जहकमं जा न ताव पारेछ । ताव सुहुमाणुपाणू धम्मं सुकं च शाहजा ॥ १५०० ।। गोषः प्रत्यूषो भण्यते, 'मुहणंतर्ग' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति - गोपादारभ्य मुखवस्त्रि
70 121
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
For Parts at Use Only
~250~