________________
आगम
(४०)
प्रत
सूत्रांक
[--]
दीप
अनुक्रम [३६.. ]
आवश्यकहारिभद्रीया
॥७६७॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्ति: [ ९४४६ ] भाष्यं [२३१],
कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह'काओ कस्सवि'त्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किचिलेखादि "निकायमाहंसु'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारं व्याख्यायते - 'अक्खे वराडए' अक्षे- चन्दनके वराटके वा - कपर्दके वा काष्ठे-कुट्टिमे पुस्ते वावस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भावः तथ्य इत्यर्थः तमाश्रित्य तथा असतोभावः असद्द्भावः अतथ्य इत्यर्थः तं चाश्रित्य किं ? - स्थापनाकायं विजानाहीति गाथार्थ ॥ १४३१ || सामान्येन सद्भावासद्भावस्थापनो|दाहरणमाह-'लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते 'एस सम्भाविया भवे ठेवणत्ति एषा सद्भाव स्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः - हस्त्या कृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ।। १४३२ ॥ शरीरकायप्रतिपादनायाह - 'ओरालियवेडश्चिय' उदारैः पुद्गलैर्निर्वृत्तमोदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आहियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्म्मणं, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं चैव एप पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनायाह'सुवि गइ इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते - चतसृष्वपि गतिषु - नारकतिर्यगूनरामरलक्षणासु
For Parts at Use Only
५. कायोत्सर्गाध्ययनं कायनि
क्षेपः
~ 223 ~
॥७६७॥
pbyg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः