________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[३१]
[भाग-३१] “आवश्यक”- मूलसूत्र - १ / ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १४१७... ] भाष्यं [ २२७...]
सार्थमाह- 'निजाणमगं निवाणमग्गं यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' ( पा०३ -३ - ११३ ) इति वचनात् कर्मणि ल्युट् निरुपमं यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गों निर्याणमार्ग इति, निर्याणमार्गः - विशिष्टनिवाणप्राप्तिकारणमित्यर्थः, अनेनानियत सिद्धिक्षेत्रप्रतिपादनपर दुर्णयनिरा समाह, निर्वृतिर्निर्वाण - सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयं, अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह इदं च "अवितहमविसंधिं सवदुक्खष्पही णमगं” अवितथं सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग - सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह - "एत्थडि ( इत्थं हि ) या जीवा 'सिज्झति 'त्ति 'अत्र ' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्राप्नुवन्ति 'बुज्झती 'ति बुध्यन्ते केवलिनो | भवन्ति 'मुचंति' त्ति मुध्यन्ते भवोपग्राहिकर्मणा 'परिनिव्वायंति' त्ति परि--समन्तात् निर्वान्ति, किमुक्तं भवति ?- 'सबदुक्खाणमंतं करिंति त्ति सर्वदुःखानां शारीरमानसभेदानां अन्तं विनाशं कुर्वन्ति - निर्वर्त्तयन्ति । इत्थमभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्नाह
तं धम्मं सदहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्मं सहहंतो पतिअंतो रोयंतो फासंतो अणुपालतो तस्स धम्मस्स अद्विओमि आराहणाए विरओमि विराहणाए असंजमं परिणामि संजमं उवसंपजामि अवंभं परिआणामि बंभं उवसंपजामि अकप्पं परियाणामि कप्पं उवसंपज्जामि
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः निर्ग्रन्थप्रवचन लक्षण धर्मस्य श्रद्धा, रुचि आदेः कथनं
~211~