SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०३७...], भाष्यं [१८६] (४०) आवश्यक- हारिभ-1 द्रीया सामायिकनिक्षेपनि वि०१ ॥४७७॥ SC- C तेषामेव देवानां देश एको निकायः असुराः, ते चसर्वएवासितवर्णा इति गाथार्थः ॥१८६॥सर्वधत्तसर्वप्रतिपादनायाऽऽह- सा हवइ सव्वधत्ता दुपडोआरा जिआ य अजिआ य । दब्वे सव्वघडाई सव्वद्वत्ता पुणो कसिण।।१८७॥(भा) | व्याख्या-सा भवति 'सबधत्ता' इत्यत्र सर्व-जीवाजीवाख्यं वस्तु धत्तं-निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु 'दधातेही (पा०७-४-४२) ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति !, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त इति डिस्थवदव्युत्पन्न एव यदृच्छाशब्दः, अथवा सर्व दधातीति सर्वध-निरवशेषवचनं सर्वधमात्तं-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचन(पा०६-२-१७०) मिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्वं तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार'त्ति द्विप्रकारा-जीवाश्चाजीवाश्च, यस्मात् यत् किश्चनेह लोकेऽस्ति तत् सर्व जीवाश्चाजीवाश्च, न ह्येतद्व्यतिरिक्तमन्यदस्ति, अत्राऽऽह-द्रव्यसर्वस्य सर्वधत्तासर्वस्य च को विशेष इति?, अयमभिप्रायः-द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दये सघघडाई इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादगुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृत्स्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः ॥ १८७ ।। अधुना भावसर्वमुच्यतेभावे सव्वोदइओयलक्खणओ जहेव तह सेसा । इत्थ उ खओबसमिए अहिगारोऽसेससब्वे ॥१८८॥(भा०) व्याख्या-'भाव' इति द्वारपरामर्शः, सर्वो द्विप्रकारोऽपि शुभाशुभभेदेन औदयिका-उदयलक्षणः कर्मोदयनिष्पन्न | इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व G ॥४७७॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~91
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy