SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति : [१०३७...], भाष्यं [१८५]. (४०) प्रत सूत्रांक भावार्थः-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्स्नं-परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यर्थः, एवं तस्यैव | द्रव्यस्य कश्चित्स्वावयवो देशः कृत्स्नतया-स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं, ततश्चतुर्भङ्गी-द्रव्यं सर्व देशोऽपि सर्वः १ द्रव्यं सर्व | देशोऽसर्वः २ देशः सर्वः द्रव्यमसर्व ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं-सम्पूर्णमङ्गलि द्रव्यसर्व 13 तदेव देशोनं द्रव्यमसर्व, तथा देश:-पर्व तत्सम्पूर्ण देशसर्वम् पर्वैकदेशः देशासर्वम् , एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमुच्यते-आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभि-12 समीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्वं घृतं भुक्तं भकं वा, प्रधानेऽप्युपचारः, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकार:-'आएस सबगामो'त्ति आदेशसर्व सवों ग्रामो गत इत्यायात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽहI'निस्सेसे सवर्ग दुविहति निरवशेषसर्व 'द्विविधं द्विप्रकारं (ग्रन्याप्रम्० १२०००) सर्वोपरिशेषसर्व तद्देशापरिशेषसर्व 8 चेति गाथार्थः ॥ १८५ ।। अत्रोदाहरणमाह, तत्रअणिमिसिणो सव्वसुरा सव्वापरिसेससब्वगं ए तद्देसापरिसेसं सब्वे काला जहा असुरा २॥१८६॥(भा०) व्याख्या-'अनिमेषिणः सर्वसुराः' अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वोपरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति-तद्देशपरिक्षेषसर्व सर्वे काला यथा असुरा इति, इयमत्र भावना अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: • अत्र मूल संपादकस्य मुद्रणशुद्धि-स्खलनत्वात् भाष्य क्रमांक -१८५ द्विवारान् मुद्रितं दृश्यते ~90~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy