________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
[भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [ गाथा- ], निर्युक्तिः [१०१८], भाष्यं [ १७४...]
बहुलस्स चउत्थीए दिवा य तह सत्तमीइ रर्त्तिमि । एक्कारसीय उ दिवा बवकरणं होइ नायवं ॥ ३ ॥ इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १०१८ ॥ उक्तं कालकरणम्, अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आह—
| जीवमजीवे भावे अजीवकरणं तु तत्थ बन्नाई। जीवकरणं तु दुविहं सुअकरणं नो अ सुअकरणं ॥ १०१९ ॥ व्याख्या -- इहानुस्वारस्यालाक्षणिकत्वाज्जीवाजीवयोः सम्बन्धि 'भाव' इति भावविषयं करणमवसेयमिति, अल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-'अजीवकरणं तु' तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, 'तत्र' तयोर्मध्ये वर्णादि, इह परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह- ननु च द्रव्यकरणमपि विश्रसाविषयमित्थंप्रकारमेवोकं, को न्वत्र भावकरणे विशेष इति ?, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते तत्र तु द्रव्यप्राधान्यमिति विशेषः, जीवकरणं तु पुनः 'द्विविधं' द्विप्रकारं श्रुतकरणं नोश्रुतकरणं च श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नोश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ १०१९ ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराह—
बद्धमबद्धं तु सुअं बद्धं तु दुबालसंग निद्दिहं । तव्चिवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ १०२० ॥
१ कृष्णस्य चतुर्थ्या दिवसे च तथा सप्तम्यां रात्रौ । एकादश्यास्तु दिवसे यवकरणं भवति ज्ञातव्यम् ॥ ३
Education intimational
For Falste
cibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~64~