________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...],
प्रतिक्रमणा.क्रियाधिकारः
प्रत सूत्रांक
आवश्यक आह-एवं तर्हि सर्वक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया यया साधूनां हारिभ-
1ध्यानं न भवतीति गाथार्थः ॥ १०५ ॥ ग्रन्था १५६९६ ॥ समाप्तं ध्यानशतकं ॥ द्रीया
पडिकमामि पंचहि किरियाहि काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए ॥६११॥ (सूत्रम्) प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभियोऽतिचारः कृतः, तद्यथा--काइयाए' इत्यादि, चीयत इति
कायः, कायेन निवृत्ता कायिकी तया,सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी,(च) तत्र मिथ्याहटेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योग्यः, द्वितीया दुष्पणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्विधा-इन्द्रियदुष्पणिहितकायिकी नोइन्द्रियदुष्प-1 णिहितकायिकी च, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्ट विषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग ४ प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियण-मनसा दुष्पणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृती
याऽप्रमत्तसंयतस्य-उपरतस्य-सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन मतदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निवृत्ता-अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहापशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गताऽऽधिकरणिकी २, प्रद्वेषः-मत्स रस्तेन निवृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेपिकी च, आद्या जीवे प्रद्वेषं गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३,
दीप अनुक्रम [२२]
SSSSSSONGS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | .. क्रियायाः अधिकारः - ५ क्रिया: तथा २५ क्रिया: सविस्तरवर्णनं
~359