________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...],
प्रत
सूत्रांक
दीप अनुक्रम
पूरौद्रध्यानमिति प्रकरणागम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो
वणिजादेः, तथा 'अतिसन्धानपरस्य' परवचनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमच्या(स्या)ह, तथा प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः॥२०॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति
वह तिनकोहलोहावलस्स भूओवधायणमणज । परदवहरणचित्तं परलोयावावनिरपेक्वं ॥ २७॥ व्याख्या-तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ-उत्कटौ तौ क्रोधलोभौ च २ ताभ्यामाकुल:अभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽयमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं २ सचित्तादि तद्विषयं हरणचित्तं२ परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-परलोकापायनिरपेक्ष मिति, तत्र परलोकापाया:-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ॥ २१ ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह
सदाइविसयसाहणधणसारक्षणपरायणमणिई । सञ्चाभिसंकणपरोवधायकलुखावकं चितं ॥२२॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं-कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. (दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहा,तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव
[२१..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~3144