________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...],
आवश्यक- हारिभद्रीया
प्रत
सूत्रांक
॥५८८॥
-
--
-
दीप
वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कन-लाभछन | प्रतिक्रमश्वगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहा, एतेषुणाध्यानप्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?- शतक 'अतिक्रोधग्रहास्तम्' अतीवोत्कटो यः क्रोधः-रोषः स एवापायहेतुत्वादह इच ग्रहस्तेन ग्रस्तम्-अभिभूत, क्रोधग्रहणाच मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-निघृणमनसः' निघृण-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते-'अधमविपाक'मिति अधमः-जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥ १९ ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह
पिखुणासम्भासम्भूपभूपधायाइवषणपणिहाणं । मायाविणोऽहसंधणपररस पच्छाधावस्स ॥ २० ॥ व्याख्या-'पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधान'मित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदु'रिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्य-जकारमकारादिन सजूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारमयदर्शनेनोपाधिभेदतनिधा, तद्यथा-अभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोदावनं यथासर्वगतोऽयमात्मेत्यादि, भूतनिहवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि अवतोऽर्थान्तराभिधानमिति, भूतानां-सत्वाना-IF५८८॥ मुपधातो यस्मिन् ततोपघातं, छिन्द्धि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रर्शनार्थः, यथापिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं-दृढाध्यवसानलक्षणं,
अनुक्रम
[२१..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~313