SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२३०...], भाष्यं [२०४...], C प्रत सूत्रांक [१..] त्रितयमुक्तम् , अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तराध्ययने तन्निरूपितम् , इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत् प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्यास्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'क्रमु पादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूल वा क्रमणं प्रतिक्रमण मिति भवति, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तं च-"स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः॥२॥ से प्रति प्रति क्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तं च-"प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्ष फलदेषु । निःशल्यस्य यतेयत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥" इह च यथा करणात् कर्मकोंः सिद्धिा, तव्यतिरेकेण करण| स्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तब्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकार:पडिकमणं पडिकमओ पडिकमियध्वं च आणुपुचीए । तीए पचप्पन्ने अणागए चेव कालंमि ॥१२३१॥ व्याख्या-'प्रतिक्रमण' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्म-अशुभयोगलक्षणम् , 'आनुपूा परिपाट्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने वर्तमाने 'अनागते चैव' एप्ये चैव काले, प्रतिक्रमणादि अनुक्रम [१०..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: 'प्रतिक्रमण' शब्दस्य अर्थ-व्याख्या ~238~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy