SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [s..] आवश्यक हारिभद्रीया ॥५२९॥ [भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [१९१४८], भाष्यं [ २०४...], हितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिकं समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥। ११४८ ॥ इत्थमभिहिते सत्याद्द चोदकः- आलएणं विहारेणं ठाणेचकमणेण य न सको सुविहिओ नाउं भासावेणइएण य ।। ११४९ ॥ व्याख्या-आलयेन विहारेण स्थान चङ्क्रमणेन (स्थानेन चङ्क्रमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च, उदायिनृपमारकमाथुर कोइलादिभिर्व्यभिचारात्, तथा च प्रतीतमिदम्-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्तं मैं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः । ११४९ ॥ किंच भरहो पसन्नचंदो सभितरबाहिरं उदाहरणं । दोसुष्पत्तिगुणकरं न तेसि बज्झं भवे करणं ॥ ११५० ॥ व्याख्या - भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम्, आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूपितस्यैवाऽऽदर्शकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'बज्झे भवे करणं' ति छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं वाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूष्णीभाव एव ज्यायान् इति स्थितम् इत्ययं गाथाभिप्रायः ।। ११५० ॥ इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्षं चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्य:-- ३ वन्दनाध्ययने सुविहितत्वज्ञानं ~195~ ||५२९|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy