________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११४२], भाष्यं [२०४...],
८
4-
प्रत
सूत्रांक
||७..||
4%256445
पदार्थपरिच्छेदलक्षणात् सम्यक्त्वं-श्रद्धानलक्षणमधिगमसम्यक्त्वम्, इदमधिगमसम्यक्त्वमपि, अपिशब्दाचारित्रमपि, |'भवति जीवस्य जायते आत्मन इत्यर्थः, नैसर्गिकमाश्रित्याह-जातिस्मरणात् सकाशात् निसर्गेण-स्वभावेनोद्गता-सम्भूता जातिस्मरणनिसर्गोद्गता, असावपि न 'निरागमा आगमरहिता 'दृष्टिः' दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानं तस्मादिदमपि ज्ञानायत्तोदयमितिकृत्वा ज्ञानस्य प्राधान्यात् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम् , अयं गाथार्थः ।। ११४२ ॥ इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यः| नाणं सविसयनिययं न नाणमित्रोण कन्जनिप्फत्ती । मग्गण्णू दिईतो होइ सचिट्टो अचिहो य ॥११४३ ॥
व्याख्या-'ज्ञान' प्रकान्तं, स्वविषये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, 'सचेष्टः सव्यापारः 'अचेष्टश्च अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन, तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ॥११४३ ॥ प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधिरसुराह
आउज्जनदृकुसलावि नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी निंदं खिंसं च सा लहइ ॥११४४ ॥
दीप
अनुक्रम
[९..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~192