________________
आगम
(४०)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम [..]
[भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११३०], भाष्यं [२०४...],
यरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' प्रणमन् 'स' प्रणामकर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णामिति गाथार्थः ॥ ११३० ॥ एष दृष्टान्तः, अयमर्थोपनय:लिंग जिणपण्णत्तं एवं नमतस्स निज्जरा बिउला । जचि गुणविप्पहीणं बंदर अज्झप्पसोहीए | ११३१ ॥ ते साधुरनेनेति लिङ्गं - रजोहरणादिधरणलक्षणं जिनैः अर्हद्भिः प्रज्ञप्तं प्रणीतम् ' एवं ' यथा प्रतिमा इति 'नमस्कुर्वतः ' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीणं, 'बन्दते' नमस्करोति 'अध्यात्मशुद्ध्या' चेतःशुद्धयेति गाथार्थः ॥ ११३१ ॥ इत्थं चोदकेनोके दृष्टान्तदार्शन्तिकयोर्वैषम्यमुपदर्शयन्नाचार्य आह
व्याख्या -
संता तिस्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं न य सावज्जा किरिया इयरेसु धुवा समणुमन्ना ॥ ११३२ ।। व्याख्या- 'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकर गुणा-ज्ञानादयः, क्व ? - 'तीर्थकरे' अर्हति भगवति इयं च प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झष्पं तेषां नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावया क्रिया प्रणमतः, तत्र किमित्यत आह- 'समणुमण्णा' समनुज्ञा सावध क्रियायुक्तपार्श्वस्थादिप्रणमनात् सावद्यक्रियानुमतिरिति हृदयम्, अथवा सन्तस्तीर्थकर - गुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम्-इदं चेतः, ततोऽर्हगुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 186~