SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [s..] आवश्यकहारिभद्रीया ॥५२१ ॥ [भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [१९११४], भाष्यं [ २०३...], ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च नलादीनि लोके 'द्विविधानि द्विप्रकाराणि भवन्ति 'द्रव्याणि वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ॥ १११४ ॥ स्यान्मतिः- जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत्, यतः --- जीवो अणाइनिहणो तन्भावणभाविओ य संसारे । खिष्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥ १११५ ।। व्याख्या- 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाखाश्चरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं शीघ्रं स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ १११५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु अंबरस य निंबस्स य दुण्हंपि समागयाई मूलाई । संसग्गीह विणडो अंबो नित्तणं पत्तो ॥ १११६ ।। व्याख्या - चिरपतिततिक्त निम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसर्ग्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः- तिक्तफलः संवृत्त इति गाथार्थः ॥ १११६ ॥ तदेवं संसर्गिदोषदर्शनाच्याज्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः- नन्वेतदपि सप्रतिपक्षं, तथाहि[सुचिरंषि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जाय महुरो ? जइ संसग्गी पमाणं ते ॥ १११७ ॥ व्याख्या- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्बः' वृक्षविशेषः 'दक्षुवाटमध्ये' इक्षुसंसर्ग्या किमिति न जायते ‍वन्दनाध्ययने संसर्गजा दोषगुणाः ~ 179~ ॥५२१॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy