________________
आगम
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११०८], भाष्यं [२०३...],
(४०)
प्रत
सूत्रांक
||७..||
पासस्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मपंधं च ।। ११०८॥ __व्याख्या-'पार्श्वस्थादीन' उक्तलक्षणान 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिन निर्जरा भवति, तत्र कीर्ति:-अहो अयं पुण्यभागित्येवलक्षणा सा भवति, अपि त्वकीर्तिर्भवति, नूनमयमध्येवस्वरूपो येनैषां चन्दनं करोति, तथा निर्जरणं | निर्जरा कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाबिराधनाद्वारेण निर्गुणत्वात्लेषामिति, चीयत इति कायः-देहस्तस्य क्लेशः-अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वतयति, तथा क्रियत इति कर्म| ज्ञानावरणीयादिलक्षणं तस्य बन्धो-विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः-स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्ध च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवामुते, कथं -भगवत्प्रतिकुष्टवन्दने आज्ञाभङ्गः, तिं दृष्टाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् रष्ट्राऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥११०८ ॥ एवं तावत्पावस्थादीन वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह
जे बंभचेरभट्ठा पाए उइंति बंभयारीणं । ते होंति कुंटमंटा पोही य सुदुल्लहा तेर्सि ॥११०९॥ व्याख्या-ये-पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौषतः संयमवाचकश्च, 'पाए उडिंति भयारीण' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दननिषेधं कुर्वन्तीत्यर्थः, ते तदुपातकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति
दीप अनुक्रम
MARCH
[९..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~174.