SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं / [गाथा-१], नियुक्ति : [१०५६..], भाष्यं [१९४...] SAC प्रत ROCALC लोगस्मुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चउबीसपि केवली ॥१॥ (सूत्रम्) व्याख्या अस्य, तलक्षणं चेद-'संहिता चे'त्यादि पूर्ववत् , तत्रास्खलितपदोच्चारण संहिता, यद्वा परः संनिकर्ष इति, सा चेय-लोगस्सुजोयगरे'इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिध्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोका, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं -उद्योतकरणशीला उद्योतकरास्तान, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान, तथा अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवल ज्ञानमेषां विद्यत इति केवलिनस्तान केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाजि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्खलियसंहियाई बक्खाणचउक्कए दरिसियंमि । सुत्तफासियणिज्जुत्तिवित्थरत्थो इमो होइ ॥१॥' चालनामपि चाचैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह १ अस्खलितसंहितादी व्याख्यानचतुष्के दर्शिते । सुत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवति ॥१॥ % अनुक्रम (३) %25% पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | मूलसूत्र 'लोगस्स' स्य आरम्भः, तस्य प्रथम-गाथाया: पद-व्याख्या: ~124
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy