________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०५४], भाष्यं [१८९...]
-5-4245
प्रत
सूत्रांक
पादेये हेय इत्यर्थः, चशब्दः खलुभयोबृहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्यमिति अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः सचन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिरुपेक्षणी
यस्तृणादिः, आमुग्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतच्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति. है तस्मिन्नर्थे 'जइअवमेव त्ति अनुस्वारलोपादू यतितव्यम् 'एवम् अनेन क्रमेणहिकामुष्मिकफलप्राप्यर्थिना सत्त्वेन यति
तव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात् , तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं गाणं तओ दया, एवं चिहइ सबसंजए । अन्नाणी किं काहिति किं वा णाहिति छेय पावगं ? ॥१॥” इतश्चैतदेवमङ्गीकर्तव्य यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीयस्थो य विहारो वितिओ गीयस्थमीसओ भणिओ । एतो तइयविहारो णाणुपणाओ जिणवरेहिं ॥१॥"न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्त, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजा
प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयत्तः । अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति छेकं पापके (वा) ॥ ६ ॥ २ गीतार्थश्च बिहारो द्वितीयो गीतार्थमिश्नको भणितः । आभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥1॥
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~114~