SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६०४], भाष्यं [११९...] न कश्चिझेदा, कम्मैव सज्ञान्तरवाच्यं तत् , अथ अमूतों, न तहिं नियामको देहकारणं वा, अमूर्तत्वात, गगनवत्, ४ तथाहि-नामूर्तान्मूर्तप्रसूतिरिति,न चाकारणता स्वभावः, कारणाभावस्थाविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारण-1 ताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात् , गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्तवस्तुधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेष इत्यविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वकं बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, 'पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात्, इत्यलं प्रसङ्गेनेति ।छिपकमि संसपंमी जिणेण जरमरणविप्पमुकेणं । सो समणो पब्वइओ पंचहि सह खंडियसएहिं ।। ६०५॥ व्याख्या-इत्थं छिन्ने संशये जिनेन जरामरणविषमुक्तेन स श्रमणः प्रबजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ॥ ६०५ ।। द्वितीयो गणधरः समाप्तः॥ ते पब्वाइए सोउं तइओ आगच्छई जिणसगासं । बच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ६०६॥ __व्याख्या-'ती' इन्द्रभूतिअग्निभूती प्रबजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशे, उभयनिष्क्रम-है। णाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं, A Swanniorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~50~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy