________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६००], भाष्यं [११९...]
ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसहातात्मकत्वाद्वारा विज्ञानधना, एषशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, 'एतेभ्यो भूतेभ्या' क्षित्युदकादिभ्या 'समस्थाय' कश्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञान, सदभावे मुक्त्यवस्थायां भावात् , तद्भावेऽपि मृतशरीरादावभावात्, म च वाच्यं-पष्टसत्तायामपि भवतानिवृत्तौ शरीरभावेऽपि चैतन्यनिवृत्तेः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायोभयरूपत्वे सति सर्वथा नवताऽनिवृत्तेः, न च इत्थं देहाचैतन्यस्यानिवृत्तिः, तथा श्रुतावप्युक्तम्-"अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्थस्तमिते शान्तेऽग्री शान्तायां | वाचि किंज्योतिरेवार्य पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच," तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पयते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात्, 'न प्रेत्यसञ्ज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् इत्ययं वेदपदार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात् , तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात् , तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे । स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियावि-5 रोधः, प्रदीपषत् तस्य स्वपरप्रकाशकत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपोयात्मकत्वात् ज्ञानदेशावभासितत्वात्
JABERatinintamationa
Horary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~46~