________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५९९], भाष्यं [११९...]
विधप्राणवियोगरूपम् एभिर्विपमुक्तस्तेन, कथम् --नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम । किविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयय, न, नयवादपरिकल्पितजात्यादिविनमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेतिर
गाथार्थः ॥५९९॥ इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽई, को मान का वेति?, यदि मे हद्गत संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाहकि मनि अस्थि जीवो उआहु नत्थित्ति संसओ तुज्म । वेयपयाण य अत्थं न याणसी तेसिमो अत्यो॥६००॥
व्याख्या- गौतम! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्ध-I वेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों-वक्ष्यमाणलक्षण
इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते,भगवतः सकलसंशयातीतत्वात् , संशयवतश्च तत्प्रयोगदर्श-8 है नात् , किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे,अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः ॥६००॥
यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सज्ञाऽस्ती" त्यादीनि, तथा स वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां चायमों भवतः चेतसि विपरिवर्तते-विज्ञानमेव चैतन्य, नीलादिरूपत्वात् , चैतन्यविशिष्टं यक्षीलादि तस्मात् , तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?-'भूतेभ्यः पृथिव्यादिलक्षणेभ्यः,किम् ?- समुत्थाय' उत्पद्य, पुनस्तानि
Sirwsaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~44