________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
उपपन्नाऽणुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो । सेसाणं उप्पन्नो जड़ कस्तो ?, तिविहसामित्ता ॥ ८८८ ॥
ब्याख्या—उत्पन्नश्चांसावनुत्पन्नश्च स इति समानाधिकरणः तेन न विशिष्टेनानञ् ( पा-२-१-६ ) कृताकृतादिव - यादुत्पन्नानुत्पन्न, स्याद्वादिन एवं एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात्, आह-- स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, 'एत्थ णय'त्ति अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेदः - सर्वसङ्ग्राही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णो त्ति शेषाः- विशेषग्राहिणस्तेषां शेषाणां विशेपग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह- शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अत: शेषाणामुत्पन्नः, 'जइ कत्तो 'त्ति यद्युत्पन्नः कुतः इति, आह- 'तिविह- सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मात्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात्, सामान्यधर्मैः सत्त्वादिभिरनुत्पादाद् विशेषधर्मैः संस्थानानुपूर्व्यादिभिरुत्पादाद्, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः ८८८ यदुक्तं- 'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाह -
समुट्ठाण १ वाघणा २ लडिओ ३ पढमे नयत्तिए तिविहं । उज्जुसुय पढमवज्रं सेसनया लद्धिमिच्छति ॥ ८८९ ॥
आवश्यक
हारिभ
॥३७७॥
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [८८८], भाष्यं [ १५१...]
Educatuntmantional
For Printe
नमस्कार० वि० १
~ 315~
॥३७७॥
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः