________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [– / गाथा-], निर्युक्ति: [ ७८९], भाष्यं [१४८...]
आवश्यक -कमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात् तथाहि - समग्र ज्ञानदर्शन लाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः ॥ द्वारं ॥ ॥ ३२६ ॥ 'उद्देसे निद्देसे य' इत्याद्युपोद्घातनिर्युक्तिप्रथमद्वारगाथावयवार्थी गतः, इदानीं द्वितीयद्वारगाथाप्रथमावयवः किमिति द्वारं व्याख्यायते - किं सामायिकं ?, किं तावज्जीवः ? उताजीवः ? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याह
आया खलु सामयं पञ्चकखायंतओ हवड़ आया । तं खलु पञ्चकखाणं आवाए सव्वदव्वाणं ॥ ७९० ॥
व्याख्या – 'आत्मा' जीवः खलुशब्दोऽवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादिपूर्वोक्त विकल्पव्यवच्छेदः, 'पञ्चक्खायंतओ हवइ आय' त्ति स च प्रत्याचक्षाणः- प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठा कालयो | रभेदाद् वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते स एव च परमार्थत आत्मा, श्रद्धानज्ञान सावद्य निवृत्ति स्वस्वभावावस्थितत्वात् शेषः संसारी पुनरात्मैव न भवति, प्रचुरघातिकर्मभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अतो द्वितीयाऽऽत्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सबदवाणं' ति सर्वद्रव्याणामापात - आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञेयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह- किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति - विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धं तथाहि - सामायिकस्य विषयनि
For Parts at Use Only
हारिभद्रीयवृत्तिः
१ विभागः १
~213~
॥ ३२६ ॥
janor
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः