________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [३८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
हारिभद्र
॥३३॥
विभागः
प्रत सूत्रांक
अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति-जसवाग्द्रव्यागामन्तर इत्यन्तराले अत्रै तदयोग्यमन्य-| देव द्रव्यं लभते' पश्यति, कोऽसावित्यत आह-'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्ट तदिति, |अत आह–'गुरुलध्वगुरुलघु गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुकं भवति-गुरुलघुपयायोपेतं गुरुलघु अगुरुलघुपयोयोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तदगुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठा याति, 4च्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्राय क्रमो, न पुनरवधिज्ञान प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ॥ ३८ ॥ आह-कियत्प्रदेशं तद् द्रव्यं, यत् तेजसभाषाद्रव्याणामपान्तरालवर्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाहओरालविउब्वाहारतेअभासाणपाणमणकम्मे । अह व्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ ३९॥ कम्मोवरि धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥४०॥.. प्रथमगाथाच्याख्या-आह-औदारिकादिशरीरपायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति,उच्यते, विनेयानामध्यामोहाथै,
मध्यार्थोऽवान्तरः २ मध्यभागे तैजसभाषयोः. में नजसभाषयोः । समुच्चयाय. ५ हीयमानम्. ६ अवधिः । वैजसभाषाऽयोग्यद्न्यान्तदर्शनानन्तप्रच्युतिरूपेण. ८ मत्यादीनि. * प्रच्यवत इत्यर्थः २-५+ •णुपाण० .
अनुक्रम
~76~